(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.159. अध्यायः 159
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण सञ्जयंप्रति कुरुपाण्डवसेनयोर्वृत्तवृत्तान्तकथनचोदना ॥ 1 ॥ संजयेन धृतराष्ट्रंप्रति पुरुषस्याकर्तृत्वकथनपूर्वकं स्वेन वक्ष्यमाणबन्धुनिधनश्रवणेन शोकानधिगमोपदेशः ॥ 2 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-159-0(37243)
जनमेजय उवाच। 5-159-0x(3853)
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।
किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ॥ 5-159-1(37244)
वैशम्पायन उवाच। 5-159-2x(3854)
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ।
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ॥ 5-159-2(37245)
एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः ।
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥ 5-159-3(37246)
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।
यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान् ॥ 5-159-4(37247)
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥ 5-159-5(37248)
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।
दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥ 5-159-6(37249)
एवं गते वै यद्भावि तद्भविष्यति सञ्जय ।
क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः ॥ 5-159-7(37250)
सञ्जय उवाच। 5-159-8x(3855)
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि।
न तु दुर्योधने दोषमिममाधातुमर्हसि ॥ 5-159-8(37251)
शृणुष्वानवशेषेण वदतो मम पार्थिव ।
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देवानेनसा गन्तुमर्हति ॥ 5-159-9(37252)
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ 5-159-10(37253)
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥ 5-159-11(37254)
हयानां च गजानां च राज्ञां चामिततेजसाम् ।
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥ 5-159-12(37255)
स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्।
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ॥ 5-159-13(37256)
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥ 5-159-14(37257)
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया।
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते।
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ॥ ॥ 5-159-15(37258)

इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि एकोनषष्ट्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं च सैन्यनिर्याणपर्व ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-159-4 क्षयस्यैव उदयो येभ्यस्तान् क्षयोदयान् ॥ 5-159-5 निकृतिप्रज्ञं कपटविषयैव प्रज्ञा न धर्मविषया यस्य तम् ॥ 5-159-9 एनसा दोषेण देवान्कालं वा गुन्तुं उपलब्धुं नार्हति। न स कालं न वा देवं वक्तुमेतदिहार्हतीति पाठेप्ययमेवार्थः ॥ 5-159-11 निकाराः तिरस्काराः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.